Saturday, November 5, 2016

संकटनाशनं श्री गणेश स्तोत्रम्

 
।। संकटनाशनं गणेशस्तोत्रं ।।

श्री गणेशाय नमः।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेनित्यं आयुःकामार्थसिद्धये ।।1।।

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् ।।2।।

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमम विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्।

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।3।।

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः।
न च विघ्नभयं तस्य सर्वसिद्धिकरः प्रभुः।।4।।

विधार्थी लभते विध्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ।।5।।

जपेत् गणपतिस्तोत्रं षडभिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ।।6।।

अष्टेभ्यो ब्राह्म्णेश्च लिखित्वा यः समर्पयेत् ।
तस्य विध्या भवेत्सर्वा गणेशस्य प्रसादतः ।।7।।

ॐ श्री नारदपुराणे संकटनाशनं गणेशस्तोत्रं संपूर्णम् ।।

गणेश मंत्र

1. Vakratunda Ganesha Mantra
श्री वक्रतुण्ड महाकाय सूर्य कोटी समप्रभा
निर्विघ्नं कुरु मे देव सर्व-कार्येशु सर्वदा॥
Shree Vakratunda Mahakaya Suryakoti Samaprabha
Nirvighnam Kuru Me Deva Sarva-Kaaryeshu Sarvada॥

2. Ganesha Shubh Labh Mantra
ॐ श्रीम गम सौभाग्य गणपतये
वर्वर्द सर्वजन्म में वषमान्य नमः॥

Om Shreem Gam Saubhagya Ganpataye
Varvarda Sarvajanma Mein Vashamanya Namah॥

3. Ganesha Gayatri Mantra
ॐ एकदन्ताय विद्धमहे, वक्रतुण्डाय धीमहि,
तन्नो दन्ति प्रचोदयात्॥

Om Ekadantaya Viddhamahe, Vakratundaya Dhimahi,
Tanno Danti Prachodayat॥